
Shri Kameshwari Stuti- युधिष्ठिर कृत श्री कामेश्वरी स्तुति
Shri Kameshwari Stuti- युधिष्ठिर कृत श्री कामेश्वरी स्तुति
श्री कामेश्वरी स्तुति - Shri Kameshwari Stuti
युधिष्ठिर उवाच
नमस्ते परमेशानि ब्रह्मरुपे सनातनि ।
सुरासुरजगद्वन्द्दे कामेश्वरि नमोsस्तु ते ॥ १ ॥
न ते प्रभावं जानन्ति ब्रह्माद्यास्त्रिदशेश्वराः ।
प्रसीद जगतामाद्ये कामेश्वरि नमोsस्तु ते ॥ २ ॥
अनादिपरमा विद्या देहिनां देहधारिणी ।
त्वमेवासि जगद्वन्द्ये कामेश्वरि नमोsस्तु ते ॥ ३ ॥
त्वं बीजं सर्वभूतानां त्वं बुद्धिश्चेतना धृतिः ।
त्वं प्रबोधश्च निद्रा च कामेश्वरि नमोsस्तु ते ॥ ४ ॥
त्वामाराध्य महेशोsपि कृतकृत्यं हि मन्यते ।
आत्मानं परमात्माsपि कामेश्वरि नमोsस्तु ते ॥ ५ ॥
दुर्वृत्तवृत्तसंहर्त्रि पापपुण्यफलप्रदे ।
लोकानां तापसंहर्त्रि कामेश्वरि नमोsस्तु ते ॥ ६ ॥
त्वमेका सर्वलोकानां सृष्टिस्थित्यन्तकारिणी ।
करालवदने कालि कामेश्वरि नमोsस्तु ते ॥ ७ ॥
प्रपन्नार्तिहरे मातः सुप्रस...